|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.284. अध्यायः 284
Mahabharata - Vana Parva - Chapter Topics
वानरसनापतिभिः स्वस्वसैन्यैः सहरामसुग्रीवोपासनम् ॥ 1 ॥ वानरसेनाभिः सह सागरतीरमुपागतेन रामेण सेनानां सागरतरणाय समुद्राराधनार्थं नियमेन दर्भसंस्तरे शयनम् ॥ 2 ॥ सागरेण रामंप्रति स्वप्ने स्वात्मप्रदर्शनपूर्वकं नलेन सेतुनिर्मापणचोदना ॥ 3 ॥ रामेण शरणार्थिनो विभीषणस्य लङ्काराज्येऽभिषेचनपूर्वकं सेतुमार्गेण सैन्यैः सह लङ्कागमनम् ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-284-0x(2709)(26882)
ततस्तत्रैवरामस्य समासीनस्य तैः सह।
समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा ॥ 3-284-1(26883)
वृतः कोटिसहस्रेण वानराणां तरस्विनाम्।
श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात् ॥ 3-284-2(26884)
कोटीशतवृतोवाऽपिगजो गवय एव च।
वानरेन्रौ महावीर्यौ पृथक्पृथगदृश्यताम् ॥ 3-284-3(26885)
षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत।
गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः ॥ 3-284-4(26886)
गन्धमादनवासी तु प्रथितो गन्धमादनः।
कोटीशतसहस्राणि हरीणां समकर्षत ॥ 3-284-5(26887)
पनसो नाम मेधावी वानरःसुमहाबलः।
कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ॥ 3-284-6(26888)
श्रीमान्दधिमुखो नाम हरिवृद्धोऽतिवीर्यवान्।
प्रचकर्ष महासैनयं हरीणां भीमतेजसाम् ॥ 3-284-7(26889)
कृषणानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम्।
कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ॥ 3-284-8(26890)
एते चान्ये च बहवो हरियूथपयूथपाः।
असङ्ख्येया महाराज समीयू रामकारणात् ॥ 3-284-9(26891)
गिरिकूटनिभाङ्गानां सिंहानामिव गर्जताम्।
श्रूयते तुमुलः शब्दस्तत्रतत्रप्रधावताम् ॥ 3-284-10(26892)
गिरिकूटनिभाः क्नचित्केचिन्महिषसन्निभाः।
शरदभ्रप्रतीकाशाः केचिद्धिङ्गुलकाननाः ॥ 3-284-11(26893)
उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः।
उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः ॥ 3-284-12(26894)
सवानरमहासैन्यः पूर्णसागरसन्निभः।
निवेशमकरोत्तत्रसुग्रीवानुमते तदा ॥ 3-284-13(26895)
ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः।
तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते ॥ 3-284-14(26896)
तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव।
प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा ॥ 3-284-15(26897)
मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः।
जघनं पालयामास सौमित्रिरकुतोभयः ॥ 3-284-16(26898)
बद्धगोधाङ्गुलित्रणौ राघवौ तत्रजग्मतुः।
वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव ॥ 3-284-17(26899)
प्रबभौ हरिसैन्यं तत्सालतालशिलायुधम्।
सुमहच्छालिभवनं यथा सूर्योदयं प्रति ॥ 3-284-18(26900)
नलनीलाङ्गदक्राथमैन्दद्विविदपालिता।
ययौ सुमहती सेना राघवस्यार्थसिद्धये ॥ 3-284-19(26901)
विविधेषु प्रशस्तेषु बहुमूलफलेषु च।
प्रभूतमधुमांसेषु वारिमत्सु विवेषु च ॥ 3-284-20(26902)
निवसन्ती निराबाधा तथैवगिरिसानुषु।
उपायाद्धिरिसेना सा क्षारोदमथ मागरम् ॥ 3-284-21(26903)
द्वितीयसागरनिमं तद्बलंबहुलध्वजम्।
वेलावनं समासाद् निवासमकरोत्तदा ॥ 3-284-22(26904)
ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत।
मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः ॥ 3-284-23(26905)
उपायः कोनु भवतां मतः सागरलङ्घने।
इयं हि महती सेना सागरश्चातिदुस्तरः ॥ 3-284-24(26906)
तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः।
समर्था लङ्घने सिन्दोर्न तत्कृत्स्नस्य वानराः ॥ 3-284-25(26907)
केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः।
नेति रामस्तु तानसर्वान्सान्त्वयन्प्रत्यभाषत ॥ 3-284-26(26908)
शतयोजनविस्तारं न शक्ताः सर्ववानराः।
क्रान्तुं तोयनिधिं वीरानैषा वो नैष्ठिकी मतिः ॥ 3-284-27(26909)
नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा।
वणिजामुपघातं च कथमस्मद्विधश्चरेत् ॥ 3-284-28(26910)
विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेण वै परः।
प्लवोडुपप्रतारश्चनैवात्रमम रोचते ॥ 3-284-29(26911)
अहं त्विमं जलनिधिं समारप्स्याम्युपायतः।
प्रतिशेष्याम्युपवसन्दर्शयिष्ति मां ततः ॥ 3-284-30(26912)
न चेद्दर्शयिता मार्गं धक्ष्याम्यनमहं ततः।
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ॥ 3-284-31(26913)
इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः।
प्रतिशिस्ये जलनिधं विधिवत्कुशसंस्तरे ॥ 3-284-32(26914)
सागरस्तु ततः स्वप्ने दर्शयामास राघवम्।
देवो नदनदीमर्ता श्रीमान्यादोगणैर्वृतः ॥ 3-284-33(26915)
कौसल्यामातरित्येवमाभाष्य मधुरं वचः।
इदमित्याह रत्नानामाकरैः शतशो वृतः ॥ 3-284-34(26916)
ब्रूहि किं तेकरोम्यत्रसाहाय्यं पुरुषर्षभ।
ऐक्ष्वाको ह्यस्मि ते ज्ञाती राम सत्यपराक्रमः।
एवमुक्तः समुद्रेण रामो वाक्यमथाब्रवीत् ॥ 3-284-35(26917)
मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते।
येन गत्वादशग्रीवं हन्याम कुलपांसनम्।
`राक्षसंसानुबन्धं तं मम भार्यापहारिणम्' ॥ 3-284-36(26918)
यद्येवं याचतो मार्गं न प्रदास्यति मे भवान्।
शरैस्त्वां शोषयिष्यामि दिव्यास्त्रयतिमन्त्रितैः ॥ 3-284-37(26919)
इत्येवंब्रुवतः श्रुत्वारामस्य वरुणालयः।
उवाचव्यथितोवाक्यमितिबद्धाञ्जलिःस्थितः ॥ 3-284-38(26920)
नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव।
शृणु चेदं वचोराम श्रुत्वा कर्तव्यमाचर ॥ 3-284-39(26921)
यदि दास्यामि ते मार्गं सैन्यस् व्रजतोऽऽज्ञया।
अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषोबलात् ॥ 3-284-40(26922)
अस्तित्वत्रनलो नाम वानरः शिल्पिसंमतः।
त्वष्टुः काकुत्स्थ तनयो बलवान्विश्वकर्मणः ॥ 3-284-41(26923)
स यत्काष्ठं तृणं वाऽपिशिलां वा क्षेप्स्यते मयि।
सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति ॥ 3-284-42(26924)
इत्युक्त्वाऽन्तर्हिते तस्मिन्रामो नलमुवाच ह।
कुरु सेतुं समुद्रे त्वंशक्तो ह्यसि मतो मम ॥ 3-284-43(26925)
तेनोपायेन काकुत्स्थः सतुबन्धमकारयत्।
दशयोजनविस्तारमायतं शतयोजनम् ॥ 3-284-44(26926)
नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि।
रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः ॥ 3-284-45(26927)
तत्रस्थं स तु धर्मात्मा समागच्चद्विभीषणः।
भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह ॥ 3-284-46(26928)
प्रतिजग्राह रामस्तं स्वागतेन महामनाः।
सुग्रीवस्य तु शङ्काऽभूत्प्रणिधिः स्यादिति स्मह ॥ 3-284-47(26929)
राघवः सत्यचेष्टाभिः सम्यक्व चरितेङ्गितैः।
यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत् ॥ 3-284-48(26930)
सर्वराक्षसराज्येचाप्यभ्यपिञ्चद्विभीषणम्।
चक्रे च मन्त्रसचिवं सहृदंलक्ष्मणस् च ॥ 3-284-49(26931)
विभीषणमते चैव सोऽत्यक्रामन्महार्णवम्।
ससैन्यः सेतुना तेन मार्गेणैव नराधिपः ॥ 3-284-50(26932)
ततो गत्वासमासाद्य लङ्कोद्यानान्यनेकशः।
भेदयामास कपिभिर्महान्ति च बहूनि च ॥ 3-284-51(26933)
तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ।
चरौ वानररूपेण तौ जग्राह विभीषणः ॥ 3-284-52(26934)
प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ।
दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् ॥ 3-284-53(26935)
निवेश्योपवने सैन्यं स शूरः प्राज्यवानरम्।
प्रेषयामास दुत्येन रावणस्य ततोऽङ्गदम् ॥ 3-284-54(26936)
इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि चतुरशीत्यधिकद्विशततमोऽध्यायः ॥ 284 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-284-8 मुखे पुण्ड्रस्तिलकं येषां ते. ललाटे ऊर्ध्वपुण्ड्राकारेण चिह्नेन चिह्नितानाम् ॥ 3-284-10 शिरीषकुसुमाभानां सिंहानामिति ध. पाठः ॥ 3-284-18 शालिभिर्भातीति शालिभं तच्चतद्वनं पक्वजलिभवनं तद्वत्पीतवर्णमित्यर्थः ॥ 3-284-29 प्लवः अलाबुघटादिमयं तरणसाधनम्। उडुपं रक्षुद्रनौका ताभ्यां प्रतारस्तरणम् ॥ 3-284-30 समारप्स्यामि आराधयिष्यामि ॥ 3-284-34 मधुरं वच इदंशृण्वित्याहेति शेषेण योज्यम् ॥ 3-284-40 आज्ञायेति च्छेदः। पूर्वरूपमार्षम् ॥ 3-284-47 प्रणिधिश्छलकृत गुप्तचारो वा ॥ 3-284-50 मासेनैव नराधिप इति झ. पाठ ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|